Author Name: श्रद्धा उपाध्ये टोकेकर Date: 25-03-2026
भूमिका –
विगतशतके लब्धजन्मा, शताधिकग्रन्थकर्ता, अपरशङ्करेति बिरूदान्वितः बेल्ल्ङकोण्डरामरायकविः शारीरकचतुः
सूत्रीविचारनामकम् अभिनवं कञ्चन प्रकरणग्रन्थं रचितवान् । तत्र चतुःसूत्रीव्याख्यानसन्दर्भे सः आदिमस्य
`अथातो ब्रह्मजिज्ञासा` इति सूत्रस्य व्याख्यायां हेतुवाचकस्य अतःशब्दस्य शताधिकार्थान् प्रदर्श्य `कस्मात् हेतोः`
मुमुक्षुणा ब्रह्मविचारः एव कर्तव्यः इति सयुक्तिकं प्रतिपादितं वर्तते ।
विषयोपस्थापनम्
तत्रैव चतुःसूत्रीवर्णनक्रमे आत्मस्वरूपस्यापि चर्चा ग्रन्थे बहुषः विकीरितरूपेण प्राप्यते । सः सर्वोपि विषयः क्रमशः
संगृह्य अत्र विलिख्यते । येन ब्रह्मसूत्रचतुःसूत्रीदृष्ट्या ग्रन्थकारोक्तदिशा च अस्य विषयस्य समग्रम् अवलोकनं विश्लेषणं च कर्तुं शक्येत ।
साधनचतुष्टयसम्पन्नेन मुमुक्षुणा ब्रह्मज्ञानार्थं वेदान्तविचारः कर्तव्यः इति `अथातो ब्रह्मजिज्ञासे` ति आद्यसूत्रस्य अर्थः बोद्धव्यः। आत्मा वारे द्रष्टव्यश्श्रोतव्यो मन्तव्यो निदिध्यासितव्य इति श्रुतिर्मानम्। वेदान्तविचारस्य ब्रह्मज्ञानं फलम्। ब्रह्मज्ञानस्य च ब्रह्मप्राप्तिः फलम्। ब्रह्मप्राप्तिश्च ब्रह्मभाव एव। तद् वेदितुः स्वरूपम् अर्थात् तत् जीवस्वरूपम् – आत्मनः एव ब्रह्मत्वात् इति ग्रन्थे प्रतिपादितम् । एवं प्रकारेण सूत्रव्याख्यानमाध्यमेन ग्रन्थकारेण `आत्मस्वरूपम्` उपवर्णितं वर्तते ।
लेखोद्देश्याः –
१. बेल्लङ्कोण्डरामरायकवेः योगदानस्य प्रतिपादनम् ।
२. चतुःसूत्रीविश्लेषणम्
३. अतःशब्दविचारे `आत्मस्वरूपवर्णनस्य औचित्यम् ।
४. शारीरकचतुःसूत्रीविचारस्य अपूर्वत्वम्
५. आधुनिककाले शारीरकचतुःसूत्रीविचारग्रन्थस्य छात्रदृष्ट्या उपादेयतायाः अनिवार्यतायाः च प्रतिपादनम् ।
शोधपद्धतिः –
मुख्यत्वेन विश्लेषणात्मकपद्धतिः अवलम्ब्यते । क्वचित् समीक्षणात्मकं क्वचित् च तुलनात्मकपद्धतिरपि आश्रिता भवेत् ।
शोधपरिणामः –
१. आत्मवर्णनक्रमे चतुःसूत्रीदिशा प्राप्तम् आत्मस्वरूपम् ।
२. चर्चायां ग्रन्थकारेण मण्डिताः अद्वैतसिद्धान्ताः ।
३. आत्मनानात्वादिमतानां खण्डनम् ।
४. अद्वैतवेदान्तप्रमेयज्ञानम्
५. सूत्रविश्लेष्णस्य अभिनवोदाहरणम्
६. भविष्यदृष्ट्या शोधशक्यतानां प्रतिपादनम् ।
प्रमुखशब्दावली – ब्रह्मविचारः, चतुःसूत्री, आत्मपरिच्छेदः, द्वैतपदार्थः, भ्रान्तिः